अमरकोशः


श्लोकः

संशप्तकास्तु समयात्संग्रामादनिवर्तिनः । रेणुर्द्वयोः स्त्रियां धूलि: पांशुर्न द्वयो रजः ॥ ९८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संशप्तक संशप्तकः पुंलिङ्गः संशपनम् । क्त कृत् अकारान्तः
2 रेणु रेणुः पुंलिङ्गः, स्त्रीलिङ्गः रिणाति । णु उणादिः उकारान्तः
3 धूलि धूलिः स्त्रीलिङ्गः धूयते, वा । लि बाहुलकात् इकारान्तः
4 पांशु पांशुः पुंलिङ्गः पंशति । उणादिः उकारान्तः
5 रजस् रजः नपुंसकलिङ्गः रजति । असुन् उणादिः सकारान्तः