संशप्तकः

सुधाव्याख्या

समिति । संशपनम् । ‘शप आक्रोशे’ (भ्वा० उ० अ०) । भावे क्तः (३.३.११४) । संशप्तं शपथं कुर्वन्ति । ‘तत्करोति’ (वा० ३.१.२६) इति णिच् । ण्वुल् (३.१.१३४) । क्वुन् (उ० २.३५) वा । सम्यक् शप्तं सत्यं येषां ते इति वा ॥ समयाच्छपथाद्धेतोराचाराद्वा ।


प्रक्रिया

धातुः -


शपँ आक्रोशे
शप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सं + शप् + क्त - नपुंसके भावे क्तः 3.3.114
संशप् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
संशप्त + णिच् – तत्करोति तदाचष्टे (3.1.26) । वार्तिकम् ।
संशप्त + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संशप्त + इ + ण्वुल् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
संशप्त + इ + वु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संशप्त + इ + अक - युवोरनाकौ 7.1.1
संशप्त् + अक - णेरनिटि 6.4.51
संशप्तक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
संशप्तक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संशप्तक + रु - ससजुषो रुः 8.2.66
संशप्तक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
संशप्तकः - खरवसानयोर्विसर्जनीयः 8.3.15