रेणुः

सुधाव्याख्या

रयिति । रिणाति । रीयते वा । 'री गति श्लेषणयोः' (क्र्या प० अ०) । ‘अजिवृरीभ्यो निच्च' (उ० ३.३८) इति णुः । रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः’ इति विश्वमेदिन्यौ ॥