पांशुः

सुधाव्याख्या

पंशति ‘पशि नाशने’ (चु० प० से०) । 'अर्जिदृशिकम्यमि-'(उ० १.२७) इति साधुः । ‘तालव्या अपि दन्त्याश्च शंबशूकर पांशवःइति शभेदात् (पांसुः) दन्त्यान्तश्च ॥


प्रक्रिया

धातुः -


x000D
पसिँ नाशने
पशि – अर्जिदृशिकम्यमिपशिबाधामृजिपसितुक्धुक्दीर्घहकाराश्च (१.२७) । उणादिसूत्रम् ।
पांसु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पांसु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पांसु + रु - ससजुषो रुः 8.2.66
पांसु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पांसुः - खरवसानयोर्विसर्जनीयः 8.3.15