अमरकोशः


श्लोकः

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् । इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धनुस् धनुस् पुंलिङ्गः, नपुंसकलिङ्गः धनति । उस् उणादिः सकारान्तः
2 चाप चापः पुंलिङ्गः, नपुंसकलिङ्गः चपस्य वंशभेदस्य विकारः । अण् तद्धितः अकारान्तः
3 धन्वन् धन्वन्म् नपुंसकलिङ्गः धन्वति । कनिन् उणादिः नकारान्तः
4 शरासन शरासनम् नपुंसकलिङ्गः शरा अस्यन्तेनेन । ल्युट् कृत् अकारान्तः
5 कोदण्ड कोदण्डम् नपुंसकलिङ्गः कौर्दण्डो वंशोऽस्य वा । अण्डन् उणादिः अकारान्तः
6 कार्मुक कार्मुकम् नपुंसकलिङ्गः कर्मणे प्रभवति । उकञ् तद्धितः अकारान्तः
7 इष्वास इष्वासः पुंलिङ्गः इषवो बाणा अस्यन्तेऽनेन । घञ् कृत् अकारान्तः
8 कालपृष्ट कालपृष्टम् नपुंसकलिङ्गः कालो यम इव पृष्ठमस्य । बहुव्रीहिः समासः अकारान्तः