कालपृष्टम्

सुधाव्याख्या

अथेति । कालो यम इव पृष्ठमस्य । कालवर्णं वा पृष्ठमस्य । ‘कालपृष्ठं कर्णचापे पुंसि कङ्कविहंगमे’ (इति मेदिनी) । ‘कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कङ्के’ इति हैमः ॥