धनुस्

सुधाव्याख्या

अथेति । धनति । ‘धन शब्दे’ (भ्वा०) । ‘अर्तिपॄवपि-’ (उ० ४.११७) इत्युसिः । 'धनुः पियाले ना न स्त्री राशिभेदे शरासने । धनुर्धरे त्रिषु’ (इति सान्तेषु मेदिनी) । ‘भृम्रशी-' (उ० १.७) इत्युप्रत्यये उदन्तोऽपि । (‘धनुः पुमान् पियालद्रौ राशिभेदे शरासने’ इति नान्तेषु मेदिनी । ('कृषिचमितनिघनि-' (उ० १.८०) इत्युप्रत्ययान्तः) स्त्रियामपि । (स्थावरं तु धनुर्गुणी) । ‘शरावापो घनूः’ स्त्री स्यात् (तृणता त्रिणतापि च)इति त्रिकाण्डशेषात् ॥