अमरकोशः


श्लोकः

अन्त:पुरे त्वधिकृतः स्यादन्तर्वंशिको जनः । सौविदल्ला: कञ्चुकिन: स्थापत्याः सौविदाश्च ते ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अन्तर्वेशिक अन्तर्वेशिकः पुंलिङ्गः अन्तर् अभ्यन्तरो वंशो गृहम् । ठक् तद्धितः अकारान्तः
2 सौविदल्ल सौविदल्लः पुंलिङ्गः सुष्ठु विदन्तं विद्वांसमपि लान्ति वशवर्तिनं कुर्वन्ति । अण् तद्धितः अकारान्तः
3 कञ्चुकिन् कञ्चुकिन् पुंलिङ्गः कञ्चुकश्चोलकोऽस्त्येषाम् । इनि तद्धितः नकारान्तः
4 स्थापत्य स्थापत्यः पुंलिङ्गः तिष्ठन्त्येषु पुरुषाः । ष्यञ् तद्धितः अकारान्तः
5 सौविद सौविदः पुंलिङ्गः सुविदन्ति । कृत् अकारान्तः