अन्तर्वेशिकः

सुधाव्याख्या

अन्तेति । अन्तर् अभ्यन्तरो वंशो गृहम् । अन्तर्वंशे नियुक्तः । ‘तत्र नियुक्तः’ (४.४.६९) इति ठक् । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा अन्तर्वंशोऽस्यास्ति । ‘अत इनिठनौ’ (५.२.११५) ॥