स्थापत्यः

सुधाव्याख्या

तिष्ठन्त्येषु पुरुषाः । ‘घञर्थे कः’ (वा० ३.३.५८) । स्थानां दाराणां पतयः पालकाः स्थपतय एव । चतुर्वर्णादित्वात् (वा० ५.१.१२४) स्वार्थे ष्यञ् । ‘स्थपतिः कञ्चुकिन्यपि’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64
स्था + क - घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
स्था + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्थ् + अ - आतो लोप इटि च 6.4.64
स्थ + आम् + पति + जस् - षष्ठी 2.2.8
स्थपति - सुपो धातुप्रातिपदिकयोः 2.4.71
स्थपति + सु + ष्यञ् - चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (5.1.124) । वार्तिकम् ।
स्थपति + ष्यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
स्थपति + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
स्थपत् + य - यस्येति च 6.4.148
स्थापत्य - तद्धितेष्वचामादेः 7.2.117
स्थापत्य + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्थापत्य + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
स्थापत्यास् - प्रथमयोः पूर्वसवर्णः 6.1.102
स्थापत्यारु - ससजुषो रुः 8.2.66
स्थापत्यार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्थापत्याः - खरवसानयोर्विसर्जनीयः 8.3.15