अमरकोशः


श्लोकः

पुरोगाग्रेसरप्रष्ठाग्रत:सरपुर:सराः । पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुरोग पुरोगः पुंलिङ्गः पुरो गच्छति । कृत् अकारान्तः
2 अग्रेसर अग्रेसरः पुंलिङ्गः अग्रे सरति । कृत् अकारान्तः
3 प्रष्ठ प्रष्ठः पुंलिङ्गः प्रतिष्ठते गच्छति । कृत् अकारान्तः
4 अग्रतःसर अग्रतःसरः पुंलिङ्गः अग्रतः सरति । कृत् अकारान्तः
5 पुर:सर पुर:सरः पुंलिङ्गः पुरः सरति । कृत् अकारान्तः
6 पुरोगम पुरोगमः पुंलिङ्गः पुरो गच्छति । अच् कृत् अकारान्तः
7 पुरोगामिन् पुरोगामी पुंलिङ्गः पुरो गच्छति । णिनि कृत् नकारान्तः
8 मन्दगामिन् मन्दगामी पुंलिङ्गः मन्दं गच्छति तच्छीलः । णिनि कृत् नकारान्तः
9 मन्थर मन्थरः पुंलिङ्गः मन्थति पादौ । अरन् बाहुलकात् अकारान्तः