प्रष्ठः

सुधाव्याख्या

प्रतिष्ठते गच्छति । ‘आतश्चोपसर्गे-’ (३.१.१३६) इति कः । ‘प्रष्ठोऽग्रगामिनि' (८.३.९२) इति षः । ‘प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकौषधौ' (इति मेदिनी) ॥