मन्थरः

सुधाव्याख्या

मन्थति पादौ । ‘मथि हिंसासंक्लेशनयोः’ (भ्वा० प० से०) । बाहुलकादरन् । मन्थं राति । ‘आतोऽनुप-' (३.२.३) इति कः । ‘मन्थरः कोशफलयोर्बाधमन्थानयोः पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत्' (इति मेदिनी) ॥