पुरोगः

सुधाव्याख्या

प्विति । पुरोगच्छति । ‘अन्येष्वपि-' (वा० ३.२.४८) इति डः ॥


प्रक्रिया

धातुः -


गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुरो + गम् + ड – अन्यत्रापि दृश्यत इति वक्तव्यम् (3.2.48) । वार्तिकम् ।
पुरो + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
पुरो + ग् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पुरोग+ सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पुरोग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुरोग + रु - ससजुषो रुः 8.2.66
पुरोग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुरोगः - खरवसानयोर्विसर्जनीयः 8.3.15