अमरकोशः


श्लोकः

अवग्रहो ललाटं स्यादिषीका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं कर्णमूलं त चूलिका ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अवग्रह अवग्रहः पुंलिङ्गः अवगृह्यतेऽङ्कुशेन । अप् कृत् अकारान्तः
2 इषीका इषीका स्त्रीलिङ्गः ईष्यते । ईकन् उणादिः आकारान्तः
3 निर्याण निर्याणम् नपुंसकलिङ्गः निर्यात्यनेन । ल्युट् कृत् अकारान्तः
4 चूलिका चूलिका स्त्रीलिङ्गः चूल्यतेऽनया । ण्वुल् कृत् आकारान्तः