इषीका

सुधाव्याख्या

इषीति । ईष्यते । ‘ईष उच्छे’ (भ्वा० प० से०) । ‘ईष गतिहिंसादानेषु’ (भ्वा० आ० से०) वा० । ‘ईषेः किद्ध्रस्वश्च’ (उ० ४.२१) इतीकन् धातोर्हस्वश्च । (ह्रस्वादिदीर्घमध्या) । ईषा लाङ्गलकीलिका । सेव । ‘इवे प्रति-’ (५.३.९६) इति कनि (ह्रस्वमध्या-ईषिका), दीर्घादिरपि ॥ अक्षिकूटकं चक्षुर्गोलकम् ॥