अवग्रहः

सुधाव्याख्या

अवेति । अवगृह्यतेऽङ्कुशेन । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् । ‘अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके' (इति मेदिनी) । रुद्रोऽपि-‘गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः’ इति ॥