अमरकोशः


श्लोकः

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः । आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिष्टि शिष्टिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
2 आज्ञा आज्ञा स्त्रीलिङ्गः आज्ञापनम् । अङ् कृत् आकारान्तः
3 संस्था संस्था स्त्रीलिङ्गः संतिष्ठतेऽनया । अङ् कृत् आकारान्तः
4 मर्यादा मर्यादा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
5 धारणा धारणा स्त्रीलिङ्गः धारयति धर्मम् । ल्यु कृत् आकारान्तः
6 स्थिति स्थितिः स्त्रीलिङ्गः तिष्ठन्त्यत्र । क्तिन् कृत् इकारान्तः
7 आगस् आगस्म् नपुंसकलिङ्गः अगति । असुन् उणादिः सकारान्तः
8 अपराध अपराधः पुंलिङ्गः अपराधनम् । घञ् कृत् अकारान्तः
9 मन्तु मन्तुः पुंलिङ्गः मन्यते । तु उणादिः उकारान्तः
10 उद्दान उद्दानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
11 बन्धन बन्धनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः