धारणा

सुधाव्याख्या

धारयति धर्मम् । नन्द्यादि ल्युः (३.१.१३४) । युच् (उ० २.७८) वा । (‘धारणाऽङ्गे च योगेऽस्य न पुंसि स्याद्विधारणे’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


धृञ् धारणे
धृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
धृ + णिच् - हेतुमति च 3.1.26
धृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
धार् + इ - अचो ञ्णिति 7.2.115
धार् + इ + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
धार् + इ + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
धार् + इ + अन - युवोरनाकौ 7.1.1
धार् + अन - णेरनिटि 6.4.51
धारण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
धारण + टाप् - अजाद्यतष्टाप्‌ 4.1.4
धारण + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
धारणा - अकः सवर्णे दीर्घः 6.1.101
धारणा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धारणा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धारणा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68