आगस्म्

सुधाव्याख्या

आग इति । एति । ‘इण् गतौ’ (अ० प० अ०) । ‘इण आगपराधे च’ (उ० ४.२१२) इत्यसुन् आगादेशश्च । अगति । ‘अग गतौ’ (भ्वा० प० से०) । ‘वस्यजिभ्यां णित्’ । इत्यसुन्-इति सुभूतिः । तन्न । उज्ज्वलदत्तादिषूक्तसूत्रस्यादर्शनात् । ‘आगोऽपराधे पापे स्यात्’ (इति मेदिनी) । सान्तं क्लीबम् ॥