मन्तुः

सुधाव्याख्या

मन्यते । ‘मन ज्ञाने’ (दि० आ० अ०) । ‘कमिमनिजनि-’ (उ० १.७१) इति तुः । ‘मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ’ (इति मेदिनी) ॥