अमरकोशः


श्लोकः

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् । युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभ्रेष अभ्रेषः पुंलिङ्गः भ्रेषादन्यः ॥ तत्पुरुषः समासः अकारान्तः
2 न्याय न्यायः पुंलिङ्गः नियमेन ईयते । घञ् कृत् अकारान्तः
3 कल्प कल्पः पुंलिङ्गः कल्पनम् । घञ् कृत् अकारान्तः
4 देशरूप देशरूपम् नपुंसकलिङ्गः देशो रूपमस्य । घञ् कृत् अकारान्तः
5 समञ्जस समञ्जसम् नपुंसकलिङ्गः सम्यगञ्जोऽत्र अच् तद्धितः अकारान्तः
6 युक्त युक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः युज्यते स्म । क्त कृत् अकारान्तः
7 औपयिक औपयिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपयन्त्यनेन । ठक् तद्धितः अकारान्तः
8 लभ्य लभ्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लभ्यते यत् कृत् अकारान्तः
9 भजमान भजमानः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भजते फलमनुबध्नाति । चानश् कृत् अकारान्तः
10 अभिनीत अभिनीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभिनीयते स्म । क्त कृत् अकारान्तः