अभिनीतः

सुधाव्याख्या

अभिनीयते स्म । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) अभिनीतेन तुल्यम् । ‘अभिनीतं संस्कृतं (ते) च न्याय्ये चामर्षणे’ (र्षिणि) त्रिषु’ इति रुद्रः । ‘अभिनीतं त्रिषु न्याय्ये संस्कृतामर्षिणोरपि’ (इति मेदिनी) ॥