औपयिकः

सुधाव्याख्या

उपयन्त्यनेन । ‘एरच्’ (३.३.५६) उपाय एव । ‘उपायाद्ध्रस्वश्च’ (ग० ५.४.३४) इति ठक् ह्रस्वश्च ॥