देशरूपम्

सुधाव्याख्या

दिश्यते । ‘दिश अतिसर्जने’ (तु० उ० अ०) । घञ् (३.३.१९) । देशो रूपमस्य । दिश्यमानस्योचितस्य रूपम् । यद्वा देशनम् । घञ् (३.३.१८) । प्रशस्तं देशनं वा । ‘प्रशंसायां रूपप्’ (५.३.६६) ॥