अमरकोशः


श्लोकः

प्रग्रहोपग्रहौ वन्द्यां कारा स्याद्वन्धनालये । पुंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् ॥ ११९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रग्रह प्रग्रहः पुंलिङ्गः प्रगृह्यते । अप् कृत् अकारान्तः
2 उपग्रह उपग्रहः पुंलिङ्गः अप् कृत् अकारान्तः
3 वन्दिन् वन्दी स्त्रीलिङ्गः वन्द्यते, वन्दते वा । इन् उणादिः नकारान्तः
4 कारा कारा स्त्रीलिङ्गः कीर्यतेऽत्र । अङ् कृत् आकारान्तः
5 बन्धनालय बन्धनालयः पुंलिङ्गः बन्धनस्यालयः॥ तत्पुरुषः समासः अकारान्तः
6 असु असुः पुंलिङ्गः अस्यन्ते, अस्यन्ति, वा । उणादिः उकारान्तः
7 प्राण प्राणः पुंलिङ्गः प्राणन्त्येभिः । घञ् कृत् अकारान्तः
8 जीव जीवः पुंलिङ्गः जीवनम् । घञ् कृत् अकारान्तः
9 असुधारण असुधारणम् नपुंसकलिङ्गः असूनां धारणम् ॥ तत्पुरुषः समासः अकारान्तः