कारा

सुधाव्याख्या

केति । कीर्यतेऽत्र । ‘कॄ विक्षेपे' (तु० प० से०) । ‘भिदादिपाठात्’ (३.३.१०४) अङ्दीर्घौ । ‘कारो वधे निश्चये च बलौ यत्ने यतावपि । कारस्तुषारशैले च कारा दूत्यां प्रसेवके । बन्धने बन्धनागारे हेमकारिकयोरपि’ (इति विश्वः) ॥