अमरकोशः


श्लोकः

कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् ॥ ११८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कबन्ध कबन्धः पुंलिङ्गः, नपुंसकलिङ्गः कं बध्यते छिद्यतेऽस्मात् । बहुव्रीहिः समासः अकारान्तः
2 श्मशान श्मशानम् नपुंसकलिङ्गः शवाः शेरतेऽत्र । बहुव्रीहिः समासः अकारान्तः
3 पितृवन पितृवनम् नपुंसकलिङ्गः पितॄणां वनम् । तत्पुरुषः समासः अकारान्तः
4 कुणप कुणपः पुंलिङ्गः क्वणति । कपन् उणादिः अकारान्तः
5 शव शवः पुंलिङ्गः, नपुंसकलिङ्गः शवति । अच् कृत् अकारान्तः