कबन्धः

सुधाव्याख्या

केति । कं बध्यते छिद्यतेऽस्मात् । 'बन्ध बन्धने’ (क्र्या० प० अ०) । घञ् (३.३.११९) । केन वायुना बध्यते वा । कबन्धमुदके रुण्डे कबन्धो राहुरक्षसोः’ इति हैमः ॥