पितृवनम्

सुधाव्याख्या

पितॄणां वनम् । पितॄन् वनति वा । ‘वन सम्भक्तौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘वनं नपुंसकं नीरे निवासालयकानने' इति मेदिनी ॥