कुणपः

सुधाव्याख्या

क्विति । क्वणति । ‘क्वण शब्दे’ (भ्वा० प० से०) । 'क्वणेः संप्रसारणं च' (३.१४३) इति कपन् । (कुणपी पुनः । विट्सारिकायां) कुणपः पूतिगन्धे शवेऽपि च' इति विश्वमेदिन्यौ ॥