अमरकोशः


श्लोकः

द्विट्विपक्षाहितामित्रदस्युशात्रवशत्रवः ॥ अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्विष् द्विष् पुंलिङ्गः द्वेष्टि । क्विप् कृत् षकारान्तः
2 विपक्ष विपक्षः पुंलिङ्गः विरुद्धः पक्षोऽस्य बहुव्रीहिः समासः अकारान्तः
3 अहित अहितः पुंलिङ्गः न हितमस्मात् ॥ तत्पुरुषः समासः अकारान्तः
4 अमित्र अमित्रः पुंलिङ्गः अमति । गच्छति । इत्रन् उणादिः अकारान्तः
5 दस्यु दस्युः पुंलिङ्गः दस्यति । युच् उणादिः उकारान्तः
6 शात्रव शात्रवः पुंलिङ्गः शत्रुरेव । अण् तद्धितः अकारान्तः
7 शत्रु शत्रुः पुंलिङ्गः शातयति । क्रुन् उणादिः उकारान्तः
8 अभिघातिन् अभिघाती पुंलिङ्गः अभिहन्तुं शीलः । णिनि कृत् नकारान्तः
9 पर परः पुंलिङ्गः पिपर्ति रोषम् । अच् कृत् अकारान्तः
10 अराति अरातिः पुंलिङ्गः न राति सुखम् । क्तिच् कृत् इकारान्तः
11 प्रत्यर्थिन् प्रत्यर्थी पुंलिङ्गः प्रतिकूलमर्थयितुं शीलः । णिनि कृत् नकारान्तः
12 परिपन्थिन् परिपन्थी पुंलिङ्गः परि दोषाख्याने पन्थयितुं शीलः । णिनि कृत् नकारान्तः