अभिघाती

सुधाव्याख्या

अभिहन्तुं शीलः । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘द्वेष्योऽभियातिरमित्रः’ इति रत्नकोशः । तत्राभियातेः क्तिच् (३.३.१७४) । बाहुलकात्तिर्वा ॥


प्रक्रिया

धातुः -


हनँ हिंसागत्योः
अभि + हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अभि + हन् + णिनि - सुप्यजातौ णिनिस्ताच्छिल्ये 3.2.78
अभि + हन् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
अभि + हान् + इन् - अत उपधायाः 7.2.116
अभि + हान् + क्तिच् + इन् - क्तिच्क्तौ च संज्ञायाम् 3.3.174
अभि + हान् + ति + इन् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अभि +हा + ति + इन् - अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति 6.4.37
अभिघातिन् - हो हन्तेर्ञ्णिन्नेषु 7.3.54
अभिघातिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अभिघातिन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अभिघातिन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
अभघातीन् - सौ च 6.4.13
अभिघाती - नलोपः प्रातिपदिकान्तस्य 8.2.7