विपक्षः

सुधाव्याख्या

विरुद्धः पक्षोऽस्य । ‘पक्षो मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः’ (इति विश्वमेदिन्यौ) । विविधः पक्षोऽस्य वा ॥


प्रक्रिया

धातुः -


वि + पक्ष + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
विपक्ष - सुपो धातुप्रातिपदिकयोः 2.4.71
विपक्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विपक्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विपक्ष + रु - ससजुषो रुः 8.2.66
विपक्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विपक्षः - खरवसानयोर्विसर्जनीयः 8.3.15