अमरकोशः


श्लोकः

विस्फारो धनुष: स्वान: पटहाडम्बरौ समौ । प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् ॥ १०८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विस्फार विस्फारः पुंलिङ्गः विस्फरणम् । घञ् कृत् अकारान्तः
2 पटह पटहः पुंलिङ्गः पटं हन्ति । कृत् अकारान्तः
3 आडम्बर आडम्बरः पुंलिङ्गः आडम्बयति । अरच् बाहुलकात् अकारान्तः
4 प्रसभ प्रसभम् नपुंसकलिङ्गः प्रगता सभा विचारोऽस्मात् । बहुव्रीहिः समासः अकारान्तः
5 बलात्कार बलात्कारः पुंलिङ्गः बलात्करणम् । घञ् कृत् अकारान्तः
6 हठ हठः पुंलिङ्गः हठनम् । कृत् अकारान्तः
7 स्खलित स्खलितम् नपुंसकलिङ्गः स्खलम् । क्त कृत् अकारान्तः
8 छल छलम् नपुंसकलिङ्गः छालम् । कलच् उणादिः अकारान्तः