आडम्बरः

सुधाव्याख्या

आडम्बयति । ‘डवि क्षेपे’ । बाहुलकादरच् । यद्वा डम्बनम् । भावे घञ् (३.३.१८) । डम्बं राति । रायति वा । ‘आतोऽनुप-' (३.२.३) इति कः । ‘आडम्बरः समारम्भे गजगर्जिततूर्ययोः’ इति विश्वः ॥