हठः

सुधाव्याख्या

हठनम् । ‘हठ प्लुतिशठत्वयोः’ (भ्वा० प० से०) । 'पुंसि-' (३.३.११८) इति ‘खनो घ च' (३.३.२५) इति वा घः । ‘हठः स्यात्प्रसभे पृश्न्याम्’ ‘हेठो बाधाविहठयोः' इति मेदिनी ॥