प्रसभम्

सुधाव्याख्या

प्रेति । प्रगता सभा विचारोऽस्मात् । सभायाः प्रगतो वा । ‘क्लीबे तु प्रसभं हठः’ इति वोपालितः ॥


प्रक्रिया

धातुः -


प्र + सभ + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
प्र + सभ - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रसभ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रसभ + अम् - अतोऽम् 7.1.24
प्रसभम् - अमि पूर्वः 6.1.107