अमरकोशः


श्लोकः

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 राज्याङ्ग राज्याङ्गम् नपुंसकलिङ्गः स्वामी राजा । तत्पुरुषः समासः अकारान्तः
2 प्रकृति प्रकृतिः स्त्रीलिङ्गः प्रकृष्टं कुर्वन्ति राज्यम् । क्तिच् कृत् इकारान्तः
3 संधि संधिः पुंलिङ्गः संधानम् । कि कृत् इकारान्तः
4 विग्रह विग्रहः पुंलिङ्गः विरुद्धं विविधं वा ग्रहणम् । अप् कृत् अकारान्तः
5 यान यानम् नपुंसकलिङ्गः यात्यत्र । ल्युट् कृत् अकारान्तः
6 आसन आसनम् नपुंसकलिङ्गः आसनम् । ल्युट् कृत् अकारान्तः
7 द्वैध द्वैधम् नपुंसकलिङ्गः द्विपकारम् । धमुञ् तद्धितः अकारान्तः
8 आश्रय आश्रयः पुंलिङ्गः आश्रयणम् । अच् कृत् अकारान्तः