प्रकृतिः

सुधाव्याख्या

प्रकृष्टं कुर्वन्ति राज्यम् । क्तिच् (३.३.१७४) ॥ पौराणां नागराणाम् । श्रयन्ति, श्रीयन्ते, वा । ‘वहिश्री-’ (उ० ४.५१) इति निः । एकमुख्याः सजातीयसमूहाः । कामन्दकीये- ‘स्वाम्यमात्यश्च रार्ष्ट्रं च दुर्गं कोशो बलं सुहृत् । परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते’ । पौरश्रेणिभिः सहाष्टाङ्गमपि राज्यम्’ इति दर्शितम् ॥