राज्याङ्गम्

सुधाव्याख्या

स्वेति । स्वामी राजा । पुरोहितः—इति श्रीधरः । अमात्यो मन्त्री । सुहृद् मित्त्रम् । कोशो भण्डारः । राष्ट्रं देशः । पर्वतादि दुर्गाणि । बलं सैन्यम् । राज्यस्य राजकर्मणोऽङ्गानि ॥