अमरकोशः
विग्रहः
सुधाव्याख्या
विरुद्धं विविधं वा ग्रहणम् । ‘ग्रहवृदृ-’ (३.३.५८) इत्यप् ॥
प्रक्रिया
धातुः -
ग्रहँ उपादाने
ग्रह्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
वि + ग्रह् + अप्
-
ग्रहवृदृनिश्चिगमश्च 3.3.58
वि + ग्रह् + अ
-
हलन्त्यम् 1.3.3
,
तस्य लोपः 1.3.9
विग्रह + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
विग्रह + स्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
विग्रह + रु
-
ससजुषो रुः 8.2.66
विग्रह + र्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
विग्रहः
-
खरवसानयोर्विसर्जनीयः 8.3.15
Find words details involved in this Prakriya