अमरकोशः


श्लोकः

देवभूयादिकं तद्वत्कृच्छ्रं सांतपनादिकम् । संन्यासवत्यनशने पुमान् प्रायोऽथ वीरहा ॥ ५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 देवभूय देवभूयम् नपुंसकलिङ्गः देवस्य भावः। तत्पुरुषः समासः अकारान्तः
2 देवत्व देवत्वम् नपुंसकलिङ्गः देवस्य भावः। त्व तद्धितः अकारान्तः
3 देवसायुज्य देवसायुज्यम् नपुंसकलिङ्गः दवस्य सायुज्यम् तत्पुरुषः समासः अकारान्तः
4 कृच्छ्र कृच्छ्रम् नपुंसकलिङ्गः कृन्तति । रक् उणादिः अकारान्तः
5 प्राय प्रायः पुंलिङ्गः अच् कृत् अकारान्तः
6 वीरहन् वीरहा पुंलिङ्गः वीरोऽग्निः । तं हन्ति । क्विप् कृत् नकारान्तः