देवसायुज्यम्

सुधाव्याख्या

युनक्ति । ‘युजिर् योगे’ (स० उ० अ०) । ‘इगुपध-’ (३.१.१३५) इति कः । युजेन सह । ‘तेन सह-’ (२.२.२८) इति बहुव्रीहिः । ‘वोपसर्जनस्य’ (६.३.८२) इति सहस्य सः । यद्वा योजनम् । युक् । सम्पदादि क्विप् (वा० ३.३.१०८) सह युजा । सयुज्यस्य सयुजो वा भावः । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । ब्रह्मणः सायुज्यम्॥ | |


प्रक्रिया

धातुः -


युजिँर् योगे
युज् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युज् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
युज् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सह + युज - तेन सहेति तुल्ययोगे 2.2.28
सयुज - वोपसर्जनस्य 6.3.82
सयुज + सु + ष्यञ् - गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124
सयुज + ष्यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
सयुज + य - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9
सयुज् + य - यस्येति च 6.4.148
सायुज्य - तद्धितेष्वचामादेः 7.2.117
देव + ङस् + सायुज्य - षष्ठी 2.2.8
देव + सायुज्य - सुपो धातुप्रातिपदिकयोः 2.4.71
देवसायुज्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
देवसायुज्य + अम् - अतोऽम् 7.1.24
देवसायुज्यम् - अमि पूर्वः 6.1.107