कृच्छ्रम्

सुधाव्याख्या

क्रिति । कृन्तति । अनेन वा । ‘कृती छेदने’ (तु० प० से०) ‘कृतेश्छःक्रू च’ (उ० २.२१) इति रक् छोऽन्तादेशश्च । ‘कृच्छ्रामाख्यातमाभीले पापसांतपनादिनोः’ (इति मेदिनी) ॥सम्यक्तपनमत्र । प्रज्ञाद्यण् (५.४.३८) । यद्वा संतपति । ल्युट् (३.३.११३) तस्येदं कर्म । अण् (४.३.१२०) । ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्’ (मनुः ११.२१२) आदिना चान्द्रायणप्राजापत्यपराकादिग्रहः ।