प्रायः

सुधाव्याख्या

समिति । सम्यक् न्यासः आत्यन्तिकस्त्यागः । तद्युक्तेऽनशनेऽभोजने । प्रकृष्टमयनम् । ‘इण् गतौ’ (अ० प० अ०) । ‘एरच्’ (३.३.५६) । ‘अय गतौ’ (भ्वा० आ० से०) । घञ् (३.३.१८) । ‘प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः’ (इति मेदिनी) ॥