अमरकोशः


श्लोकः

ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने । गायत्रीप्रमुखं छन्दः हव्यपाके चरुः पुमान् ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सामिधेनी सामिधेनी स्त्रीलिङ्गः समिधामाधानी । षेण्यण् तद्धितः ईकारान्तः
2 धाय्या धाय्या स्त्रीलिङ्गः धीयते पुष्यतेऽग्निरनया । निपातनात् आकारान्तः
3 गायत्री गायत्री स्त्रीलिङ्गः गायन्तं त्रायते कृत् ईकारान्तः
4 छन्दस् छन्दः नपुंसकलिङ्गः चन्दते । असुन् उणादिः सकारान्तः
5 चरु चरुः पुंलिङ्गः चर्यते भक्ष्यते । उणादिः उकारान्तः