सामिधेनी

सुधाव्याख्या

ऋगिति । समिधामाधानी । ‘समिधामाधाने षेण्यण्' (वा० ४.३.१२०) । षित्वात् (४.१.४१) ङीष् । हलः’ (६.४. ४९) इति यलोपः ॥


प्रक्रिया

धातुः -


समिध् + ङस् + षेण्यण् - समिधामाधाने षेण्यण् (4.3.120) । वार्तिकम् ।
समिध् + षेण्यण् - सुपो धातुप्रातिपदिकयोः 2.4.71
समिध् + एण्य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
समिध् + एन्य - निमित्तापाये नैमित्तिकस्याप्यपायः ।
सामिधेन्य - तद्धितेष्वचामादेः 7.2.117
सामिधेन्य + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
सामिधेन्य + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सामिधेन् + ई - यस्येति च 6.4.148
सामिधेनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सामिधेनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सामिधेनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68