गायत्री

सुधाव्याख्या

गेति । गायन्तं त्रायते । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.४१) । यद्वा गानम् । गायः । घञ् (३.३.१८) । युक् (७.३.३३) । गायेन गानेन त्रायते । 'त्रैड् पालने' (भ्वा० आ० अ०) । ‘सुपि’ (३.२.४) इति योगविभागात् कः । मूलविभुजादित्वकल्पनमपार्थकम् । तस्यानाकारान्तार्थत्वात् । 'गायत्री त्रिपदादेवीछन्दोभिखदिरेषु च’ (इति मेदिनी) ॥ षडक्षरपदा गायत्री । प्रमुखपदेन उष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुब्जगत्यतिजगतीशक्वरीत्यादि एकाक्षरवृद्ध्या बोध्यम् ॥