चरुः

सुधाव्याख्या

चन्दते । चदि आझादने दीप्तौ च (भ्वा० आ० से) । चन्देरादेश्च छः' (उ० ४.२.१९) इत्यसुन् ॥ प्रथमप्रमुखे चोभे प्रधाने च प्रकीर्तिते’ इत्यजयः ॥ छन्दसाम् ॥ हेति । पच्यते । कर्मणि घञ् (३.३.१९) । हव्यं च तत् पाकश्च । यद्वा भावे घञ् (३.३.१८) । पचनं पाकः । हव्यस्य पाक: 'अनवस्रावितान्तरूष्मपाक ओदनश्चरुः’ इति याज्ञिकाः ॥ चर्यते भक्ष्यते । ‘चर गतौ भक्षणे च' (भ्वा० प० से०) । भृमृशीतृचरि-' (उ० १.७) इत्युः । मीमांसकैरपि त्रिवृच्चर्वधिकरणे अन्नपरत्वं चरुशब्दस्याभ्युपगतम् । ‘उगवादिभ्यो यत् (५.१.२) इति सूत्रे कैयटस्तु (टार्थस्तु) ‘स्थालीवाची चरुशब्दः तात्स्थ्यादोदने भाक्तः’ इत्याह । विश्वप्रकाशे तु ‘चरुर्भाण्डे च हव्याने' इत्यनेकार्थतोक्ता॥ अथ चरुः पुमान् हव्यान्नभाण्डयोः' इति मेदिनी च । स्वामी तु-पक्वं होतव्यं चरुः । चर्यते रध्यते इति । स्थाल्यपि चरुः हव्यस्य पाकोऽत्र इत्याह । एतेन –केचितु पच्यतेऽत्रेति । ’हलश्च (३.३.१२१) इति घञ् । ‘पाकं व्युत्पद्य हव्यपाकस्थाल्यादिरुच्यते । अन्यत्रौपचारिक:’ इत्याहुः । तदसत् ।-इति मुकुटः प्रत्युक्तः । प्रयोग दर्शनमपि सूपपादमनेकार्थकतायाम् ।